वांछित मन्त्र चुनें

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒: पर्यु॑ह्यते ॥

अंग्रेज़ी लिप्यंतरण

sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat | aghāsu hanyante gāvo rjunyoḥ pary uhyate ||

पद पाठ

सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥ १०.८५.१३

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:13 | अष्टक:8» अध्याय:3» वर्ग:22» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्यायाः-वहतुः प्र-अगात्) तेजस्विन्याः नववध्वाः-निर्वाहयोग्यं बाह्यं दातव्यं गवादिधनरूपं भवति (सविता यम्-अवासृजत्) उत्पादयिता पिता यं वहतुं दातव्यं गवादिकं धनं तस्यै सङ्कल्पयति (अघासु गावः-हन्यन्ते) मघासु नक्षत्रेषु “मकारलोपश्छान्दसः” यद्वा ‘मघा’ इत्यस्य वैदिकनाम ‘अघा’ तासु नक्षत्रेषु गावो गवादयः पदार्थाः प्रेर्यन्ते “हन हिंसागत्योः” [अदादि] पश्चात् खलु मासानन्तरं (अर्जुन्योः परि-उह्यते) फल्गुन्योर्नक्षत्रयोः फाल्गुनमासे “अर्जुनी नक्षत्रे-अर्जुन्यो वै नाम फल्गुन्य इति” [श० २।१।२।११] परितो विवाहकृत्यं समाप्येत ॥१३॥